महाजना येन गताः स पन्थाः
भारतीयसंस्कृतेः मूलाधारः सदाचारः, धर्मनिष्ठा लोककल्याणभावना च। महाभारते उक्तम्- 'महाजनो येन गतः स पन्थाः' इति। अस्य भावः अस्ति यत् ये महापुरुषाः स्वजीवनेन सत्यस्य, धर्मस्य, त्यागस्य, सेवायाः च मार्ग प्रदर्शितवन्तः, तेषाम् आचरितः पन्थाः एव अनुकरणीयः ।
महापुरुषाः केवलं उपदेशैन, अपितु स्वकीयेन आचरणेन समाजस्य मार्गदर्शनं कुर्वन्ति। श्रीरामस्य मर्यादा, श्रीकृष्णस्य लोकसंग्रहः, बुद्धस्य करुणा, महात्मनां त्यागः च अस्माकं जीवनाय प्रेरणास्त्रोतांसि भवन्ति। अतः परम्परायाः अन्धानुकरणं न, किन्तु महापुरुषैः प्रतिपादितानां शाश्वतमूल्यानां विवेकपूर्वकम् अनुसरणमेव अस्य सूक्तेः यथार्थः सन्देशः।
Every issue is fully searchable online.