सम्पादकीयम् गुरुशिष्यपरम्परयैव सनातनसमाजस्य संरक्षणम् भारतीयसंस्कृतेर्मूलाधारः गुरुशिष्यपरम्परा । गुरुपूर्णिमा न केवलं गुरोः पूजनस्य पर्व, अपितु सनातनधर्मस्य, ज्ञानपरम्परायाः, संस्कारसंरक्षणस्य च महोत्सवः। यत्र गुरवः सम्मानिताः भवन्ति, तत्र धर्मः, संस्कृतिः, राष्ट्रचेतना च चिरस्थायिन्यः भवन्ति । व्यासमहर्षेः स्मरणेन प्रेरितेऽस्मिन् पावनपर्वणि स्वयं प्रतिजानीमहे यत् गुरोकपदेशः, आचारः, मूल्यपरम्परा च एव समाजस्य नैतिकशक्तिं धारयन्ति। गुरुशिष्यसम्बन्धस्य दृढत्वेनैव सनातनसमाजः