Gandivam Issue

गाण्डीवम्

गाण्डीवम्
04 Dec 23 - 21 Jan 2024

गाण्डीवम्

सम्पादकीयम्
उत्तिष्ठत जाग्रत
अयं सन्देशः उपनिषदा मानवेभ्यः प्रदत्तो यत्-मानवैः सर्वदा जागरूकैः भाव्यम्। कदापि कस्यामपि परिस्थितौ स्वकर्तव्यं नैव त्याज्यम्। अत एवोपनिषदि पूर्वम् उत्तिष्ठत इति निर्देशं प्रदाय पुनः जाग्रत इति कथितम्। लोके पूर्व जागरणम् तदनन्तरञ्चोत्यानं दृश्यते। अतः जाग्रत इति पदेन सर्वदा जागरूका भवत स्वलक्ष्यावाप्तये दत्तावधाना भवत इति सन्देशं दित्सति उपनिषत् यद्यपि अस्माकं जीवनेऽपि सर्वदा मातोत्पाताः समायान्ति, उत्थान पतनानि समायान्ति,
मरणव्याधिशोकभयं समायाति तथापि अस्माभिः सर्वदा स्वसामर्थ्यानुसारं स्वकर्तव्यपालनयत्नो विधेयः। यदि वयं संस्कृतसमुपासका एवं कुर्याम तदा संस्कृतस्य संस्कृतेश्च विकासपरम्परा सर्वदा अग्रगामिनी भविष्यति। अतः प्रत्येकं दिवसे समाजहिताय अवश्यमेव चिन्तनीयम् यथाशक्ति कार्यञ्चकरणीयम्। अस्माकं पूर्वजैः महता परिश्रमेण परंपरेयं सुरक्षिता संवर्धिता च अस्माकमपि तत्र योगदानमवश्यं भवेदिति सर्वेभ्यः गाण्डीव- पाठकेभ्यो विनिवेद्य विरम्यते।

Every issue is fully searchable online.

Keep Reading

More Issues