सम्पादकीयम्
औदासीन्यं त्यजन्तु भोः!
संस्कृतं भारतीयानां सर्वस्वमिति निश्चितम् ।
यतो हि संस्कृतिश्चास्य संस्कृतेऽस्ति सुरक्षिता । । १ ।
पुरा काले गुरोर्गेहे ह्याश्रमे च यथाविधि ।
शिक्षा संस्कृतविद्याया दीयते स्म यथाक्रमम् ।। २ ।।
विश्वविद्यालया नैव चाकचिक्यसमन्विताः ।
न सौविध्यं न द्रव्यस्य प्राचुर्यमभवत्तदा ।। ३ ।।
स्थित्वा गुरुकुले शिष्या भिक्षां कृत्वा गृहे गृहे ।
सम्पाद्याश्रमकार्याणि पेठुः शास्त्राणि निष्ठया । । ४ । ।
तस्याः संस्कृतशिक्षायाः प्रभावो वसुधातले ।
सर्वत्र प्रसरद् दिव्यः सर्वलोकमनोहरः । । ५ । ।
तत्राधीत्य समे जाता विद्वच्छ्रेठा गुणान्विताः ।
कौत्सचाणक्यतुल्यास्ते सर्वशास्त्राविलक्षणाः । । ६ ।।
स्नातकस्य हि सम्मानः क्रियते स्म नृपैरपि ।
राजवृत्तिं भृतिञ्चापि मन्यते तैः स्म गर्हितम् ।। ७ ।।
साम्प्रतं शास्त्रशिक्षायाः कृते भारतशासनम् ।
प्रयत्नं कुरुते नैनेके स्थापिताः शिक्षणालयाः । । ८ ।।
दशसप्त हि संख्याका विश्वविद्यालयाः शुभाः ।
सर्वसौविध्यसम्पन्ना राजन्ते भारतेऽधुनाः ।। ९।।
किन्तु संस्कृतशिक्षायां प्रगतिनैव दृश्यते ।
प्रमाणपत्र भारेण विह्वला सालोक्यते ।। १० ।।
आचार्याः सन्ति भूयांयो विश्वविद्यालयेषु हि ।
शिष्याणाञ्चापि सम्मर्दः काले कालेऽवलोक्यते ।। ११ ।।
प्रवेशसमये चाथ संघनिर्वाचनावधौ ।
परीक्षायाञ्च छात्राणां दर्शनं जायते सदा।। १२ ।।
कक्षासु दर्शनं तेषु पञ्चषाणां हि केवलम् ।
जायते कालतस्तेऽपि लुप्यन्ते क्रमशः शनैः ।। १३ ।।
आचार्यैरपि कार्याणि विश्वविद्यालयस्य वै ।
विहायाध्यापनं नित्यं क्रियन्ते शासकाज्ञया ।। १४ ।।
येन केनाप्युपायेन प्रमाणपत्रलाभतः ।
सन्तुष्टिं लभते शिष्यः शास्त्रबोधविवर्जितः ।। १५ ।।
लक्ष्याधिका भ्रमन्त्यद्य प्रमाणपत्रधारकाः ।
येषु संस्कृतविद्याया गन्धोऽपि नावलोक्यते ।। १६ ।।
प्रमाणपत्र योगेन हान्योपायैश्च तैः पुनः ।
आचार्यपदवीं रम्यां लभन्ते नात्र संशयः ।। १७ ।।
Every issue is fully searchable online.