गाण्डीवम्

श्रीमद्भगवद्गीता भारतीयदर्शनपरम्परायाः सारभूता ग्रन्थराज्ञीव विराजते। तत्र भगवता श्रीकृष्णेन प्रतिपादितः कर्मयोगो मानवजीवनस्य तत्त्वदर्शक आचारमार्गप्रवर्तक-श्चास्ति। 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन' इति महावाक्यं तस्य कर्मयोगदर्शनस्य मेरुदण्ड-त्वेनावस्थितम्।