गाण्डीवम्

सम्पादकीयम् त्याज्यं न धैर्यं विधुरेऽपि काले जीवनं नाम नित्यं परिवर्तनशीलम्। कदाचित् सुखेन, कदाचित् दुःखेन सह अस्माकं मार्गः गच्छति। किन्तु यः जनः प्रतिकूलस्थितिषु अपि धैर्यं न जहाति, स एव सफलतासोपानं आरोढुं शक्नोति। अत एवोक्तम्- "त्याज्यं न धैर्यं विधुरेऽपि काले।" धैर्यं मनुष्यस्य महान् बलमस्ति। दुःखेषु, विघ्नेषु, आपत्तिकालेषु यदि धैर्यं त्यज्यते, तर्हि मनः क्लिष्टं भवति, कर्मणां सिद्धिरपि न जायते। अद्यतनकाले प्रतियोगिता, संघर्षः, असफलता न्च सर्वत्र दृश्यते। अस्माभिस्त्वेतेषु विषमकालेषु निराशा न कर्तव्या, किन्तु धैर्येण कार्य कर्तव्यम्।