गाण्डीवम्

संस्कृतं संस्कृतिश्च संस्कृतं भारतवर्षस्य प्राचीनतमा भाषा। अस्यामेव भारतस्य व्यन्था निगुम्फिता विद्यन्ते। न केवलं भारतवर्षस्यैवापितु विश्वस्यापीयं आचीनतमा भाषा विद्यते। बहव इतिहासकाराः प्रतिपादितवन्तः। ऋग्वेदो विश्वस्य प्रप्रथमं साहित्यमित्यालैरपि प्रमाणीकृतम्। न केवलं हिन्दुभाषां संस्कृतम् सनातनापरपर्यायाणां हिन्दूनां सर्वाण्यपि धार्मिककृत्यानि संस्कृतभाषया सम्पाद्यन्ते, तस्मात् कारणाद् भाषेयं हिन्दूनामिति वर्तते जगतीतले कश्चन प्रवादः, किन्तु संस्कृतसाहित्यस्य सम्यगध्ययनेन बवादोऽयमचिरमेव क्षयं यास्यति। प्राक्काले बहवो मुस्लिमा आङ्ग्‌लाड संस्कृतभाषया निष्णातविद्वांसो बभूवुः। अब्दुलरहीमखानरसखाना-दाराशिकोहमहोदया मुस्लिमधर्मानुयायिनोऽपि संस्कृतशास्त्राण्यधीत्य कृतकृत्या बभूवः। साम्प्रतमपि बहवो मुस्लिमनवयुवका अपि संस्कृताध्ययनरता विलसन्ति। यदि संस्कृतभाषा केवलं हिन्दूनां भाषाभविष्यत् तदैतेषां संस्कृताध्ययने प्रवृत्तिर्नाभविष्यत्।