सम्पादकीयम् अन्तः शुद्धिरावश्यकी जगतीतले बहवो जना व्यवहारदशायां शुभकर्माचरणलग्ना अपि मनोमोदयुक्ता न भवन्ति। बाह्यव्यवहारे तेषां क्वापि त्रुटिर्नावलोक्यते सामान्यतया। सर्वकाले भाषणे वार्तालापे सामाजिककर्मसु च तेऽग्रगामिनोऽवलोक्यन्ते। तेऽधिकारसम्पन्नत्वात् बहूनां नमस्करणीया वन्दनीयाश्च भवन्ति। परन्तु मानसपटलं न पूर्णप्रसन्नं भवति, यतो हि सर्वमपि सत्कार्य सद्व्यवहारं वा ते किमप्युद्देश्यं पुरस्कृत्यैव समाचरन्ति । अतो निस्वार्थबुद्धेरभावात् ते नैव पूर्णतया मोदान्विता भवितुमर्हन्ति। अस्माकं बहवः सत्कर्मपरायणाः सुहृदो विलसन्ति। तेष्वेक एकदा मामपृच्छत् भो! गुरो अहं स्वासामर्थ्यानुगुणं सर्वेषां सहयोगं करोमि। मम सम्पूर्ण धनं स्वबृहत्परिवारसेवायामेव गच्छति, तथापि मन्मनसि शान्तिर्न जायते, न च मयोपकृतास्ते भवन्ति कृता ममोपरि। सर्वस्वसमर्पके मय्यपि तेऽशुभं भावयन्ति। किमस्त्यस्य रहस्यम् ? तत्रासमाभिश्चिन्तितम् स महोदयः यदापि स्वपरिवारजनानां कृते बहु करोति, किन्तु तनमानसे तदभिमानो विराजते। अहं परिवारेऽस्मिन् सर्वकल्याणर्ताऽस्मीति गूढो भावो तन्मानसे राजते स्म। एतदेव खिलं तन्मानसं पीडयति स्म। एवंविधान्यु-दाहरणानि सर्वत्रैव द्रष्टुं शक्यन्ते। अतः प्रसन्ना-भिलाषुकैर्जनैः सर्वदा स्वान्तं निर्मलं स्थापनीयम्। निर्मलचित्तेन कृतमशुभमपि शुभं जायते।