सम्पादकीयम् सज्जनाः सादरं निवेद्यन्ते साम्प्रतिकशिक्षापद्धतौ प्रथमकक्षायाः समारभ्याचार्य-कक्षापर्यन्तं सत्यभाषाणोपदेशः सच्चारित्र्यपालोपदेशश्च क्रियेते। परं किं दृश्यते परिणामे? प्रायः १० प्रतिशत-मिता एवं स्वकर्तव्यं कुर्वते। सर्वैस्तथ्यमिदमत्रावधेयं न्यत् किं प्रयोजनं शिक्षायाः ? किञ्च प्रयोजनं ज्ञानस्येति । तेन ज्ञानेन तया शिक्षया वा जीवने नायाति किमपि परिवर्तनं चेत् को लाभोऽस्ति व्यर्थं शिरः स्फोटनेन? कथं हि विभेदः क्रियते शिक्षिताशिक्षितयोः। कथमेकस्मै विपुलं द्रव्यं दीयते शिक्षितनाम्ना ? कथन्न वितीर्यते सर्वेभ्यः ? इत्यादयः प्रश्नाः जाग्रति मनसि। परमेतेषां प्रश्नानां समाधानं नावलोक्यते क्वापि। साम्प्रतिकाः सर्वेऽपि लोकाः केवलं स्वसंकुचित-स्वार्थसाधनायां निरता दृश्यन्ते। स्वार्थसाधनं यथा कथमपि भवेत् तत्र गुणदोषयोर्विरामो नैव क्रियते कदापि। कोऽपि जनो वर्षद्वयपूर्वमासीद् निर्धनम् इदानीञ्च स वर्तत आढ्यतमः। सम्प्रति तस्य आढत्वमेवावलोकयन्ति सर्वे न च चिन्तयन्ति कथं स एतावत् शीघ्रं तथापरिमितं धनम् अर्जितवानिति। एतेनैव प्रकारेण शनैः शनैः क्रिया-विहीनानां संख्यावर्धनमेव जागतिकसमस्यावर्धनमस्ति । अतः सर्वे सज्जनाः सादरं निवेद्यन्ते यत् ज्ञानख्या-पनात्पूर्व कर्तव्यपरायणता अनुसर्तव्या, तदा पद्धतिरियं सर्वैरनुकरिष्यते तदावश्यमेव गृह-ग्राम-देश-जाति-विश्वकल्याणं सम्पत्स्यते। केवलमुपदेशेन तु लघुतरमपि कार्य साधयितुं न शक्यते। अतः सर्वैः सर्वतोभावेन क्रियानुष्ठानेन लोककल्याणं कर्तव्यमिति ।